Vishnumaya Stotram – Sri Vishnumaya Navakam
Vishnumaya Stotram – विष्णुमाया स्तोत्रम् गङ्गाधरसुतं देवं शिवशक्तिस्वरूपिणम् । पार्वतीहृदयानन्दं विष्णुमायां जगद्गुरुम् ॥ १ ॥ शुद्धाम्बरलसद्गात्रं नीलाम्बरसुशोभितम् । वीरघोराट्टहासं तं विष्णुमायां जगद्गुरुम् ॥ २ ॥ रत्नकाञ्चनसंयुक्तं हारकुण्डलभूषितम् । विलसद्ब्रह्मसूत्रं तं विष्णुमायां जगद्गुरुम् ॥ ३ ॥ रत्नकङ्कणकेयूरवनमालाविभूषितम् । मन्दस्मितमुखं वन्दे विष्णुमायां जगद्गुरुम् ॥ ४ ॥ श्रीचक्रबीजसंपूज्यं विभुं माहिषवाहनम् । गन्धर्वविपिनावासं विष्णुमायां जगद्गुरुम् ॥ ५ ॥ नीलोत्पललसन्नेत्रं सच्चिदानन्दरूपिणम्…